सूत्रम्
धर्मशीलवर्णान्ताच्च॥ ५।२।१३१
काशिका-वृत्तिः
धर्मशीलवर्णान्ताच् च ५।२।१३२
अन्तःशब्दः प्रत्येकम् अभिसम्बध्यते। धर्माद्यन्तात् प्रातिपदिकातिनिः प्रत्ययो नियम्यते। ब्रह्मणानां धर्मो ब्राह्मणधर्मः, सो ऽस्य अस्ति इति ब्राह्मणधर्मी। ब्राह्मणशीली। ब्राह्मणवर्णी।
न्यासः
धर्मशीलवर्णान्ताच्च। , ५।२।१३१
बाल-मनोरमा
धर्मशीलवर्णान्ताच्च १९१२, ५।२।१३१
धर्मशील। धर्माद्यन्तादिति। धर्म, शील, वर्ण--एतदन्तादिनिरेवेत्यर्थः।